आयशरीरम्। समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत। शुल्कं दण्डः इत्यादि दुर्गम्। भागो करो इत्यादि राष्ट्रम्॥ धान्यषड्भागं पण्यदशभागं हिरण्यं चास्य भागधेयं प्रकल्पयामासुः॥ बाह्यमाभ्यन्तरं चातिथ्यं निष्क्राम्यं प्रवेश्यं च शुल्कम्। प्रवेश्यानां मूल्यपंचभागः। द्वारादेयं शुल्कपंचभागः॥ इतिकौटलीयार्थशास्त्रे॥